पत्रिकाया विकासयात्रा

‘भारती’ पत्त्रिकाया विकासयात्रा

 

श्री  प्रोफेसर श्रीकृष्णशर्मा

     ‘भारती’ संस्कृतमासपत्त्रिका बाबासाहब-आप्टे-महोदयानां सत्प्रेरणया 1950 तमे ख्रिस्ताब्दे ‘दीपावलि’ पर्व-दिनात् समारब्धाऽऽसीत्। आप्टे-महोदया: श्रीमन्तं गिरिराजशास्त्रिणं प्रथमप्रबन्धसम्पादकपदे न्ययुञ्जत। जयपुरत: ‘संस्कृतरत्नाकर:’ इति नाम्ना मासपत्त्रिकाया: 1904 ख्रिस्ताब्दत: प्रकाशनमारब्धमासीत्, 1949 ईशवीयाब्दे सा जयपुरत: काशीं प्रति स्थानान्तरिता जाता। सौभाग्यात् किञ्चित्कालानन्तरं तदानीं राष्ट्रियस्वयंसेवक-सङ्घस्य केन्द्रीयकार्यसमिते: प्रचारप्रमुखा: श्रीउमाकान्त-केशव-आप्टे (बाबा साहब-आप्टे) महोदया: जयपुरमागच्छन्। यदा तेऽज्ञासिषुर्यदित: कापि संस्कृतपत्त्रिका न प्रकाश्यते, तदा तेऽवदन् यदित: ‘संस्कृतमासपत्त्रिकाऽवश्यं प्रकाश्येत’ इति ममाभिलाष:। एतदर्थं जयपुरस्थ-महाराज- संस्कृत-महाविद्यालयीय-म.म.गिरिधरशर्मचतुर्वेद-भट्ट- मथुरानाथशास्त्रिप्रमुखानां विदुषाम् उपवेशनमायोजितम्, यत्र प्रान्तप्रचारकं श्रीलेखराजशर्माणं संस्कृतमास-पत्त्रिकाप्रकाशनाय ‘आप्टे’ महोदया: समादिष्टवन्त:। तत्रैवोपविष्टा: श्रीमन्तो गिरिराजशास्त्रिण: (दादाभाई) ‘संस्कृपत्त्रिका’ प्रकाशनाय दृढप्रतिज्ञा अभूवन्।

     श्री गिरिराजशास्त्री ‘दादाभाई’ (1921-2012 ई.) - ‘आप्टे’ महोदया गिरिराजशास्त्रिवर्याणां कर्मठतामाकलय्य तान् संस्कृतमासपत्त्रिकाया: ‘प्रबन्धसम्पादक’ इति पदे न्ययुञ्जत। श्रीगिरिराज-शास्त्रिण: संस्कृतमासपत्त्रिकाया नामकरणार्थं महाराजसंस्कृतमहाविद्यालयस्य प्राचार्यवर्यै: मीमांसा-केसरिभि: पण्डित-पट्टाभिरामशास्त्रिभि: सह परामर्शं विधाय ‘सञ्जीवनी’ ‘भारती’ वेति नामद्वयं पञ्जीकरणाय केन्द्रसर्वकाराय प्रार्थनापत्त्र प्रेषितवन्त:। पञ्जीकरणकार्यालयतो ‘भारती’ इति पत्त्रिकाभिधानम् अनुमोदितम्। इत्थं पञ्चाशदधिकैकोनविंशतिशततमे (1950) ख्रिष्टाब्दे ‘भारती’ ति नाम्ना संस्कृतमास-पत्त्रिका पञ्जीकृता। इत्थं 1950 तमस्येशवीयवर्षस्य दीपावलिदिवसाद् ‘भारती’ नाम्ना संस्कृतमासपत्त्रिका समारब्धा। श्रीगिरिराजशास्त्रिणां सम्पादकत्वे प्रगतिपथ-मारूढा निर्बाधं प्रचलन्ती सम्प्रति श्री-सुदामशर्मणां प्रबन्धसम्पादकत्वे प्रायेण सप्ततितम (70) वर्षाणां यात्रां कृतवती।

श्री-सुदामा शर्मा -

     ‘दादाभाई’ श्रीगिरिराजशास्त्रिणां विश्रमानन्तरं 2010 ईशवीयाब्दतो राष्टीयस्वयंसेवक-संघस्य वरिष्ठ: प्रचारक: श्री-सुदामा शर्मा महोदय: प्रचारककार्येण सह ‘भारती’ ति संस्कृतमासपत्त्रिका-प्रकाशनाय कटिबद्ध: सर्वात्मना प्रयतते। इदानीमस्य महोदयस्याथकप्रयासैरथ विदुष: प्रति निष्ठापूर्णव्यवहारेण च पत्त्रिकैषा निर्बाधगत्या प्रकाशतां याति। सर्वेषामेते शीलभूषणा: समादरभाज:।

इदानीं यावद् अस्यां ‘भारती’ संस्कृतमास-पत्त्रिकाया विकासयात्रायां सम्पादकानां योगदानमित्थं वर्तते -

  1. स्वामि-सुरजनदास: (1910-1990) -

     ‘भारती’ पत्त्रिकाया प्रथमसम्पादकोऽयं विद्वान् व्याकरण-साहित्य-सांख्ययोग-वेदान्तशास्त्रेषु लब्धाचार्यपदवीक:, संस्कृते ‘एम.ए.’ इति परीक्षायामपि लब्धस्वर्णपदक:, जोधपुरविश्वविद्यालयीय-संस्कृत-विभागाध्यक्षचर: 1950 त: 1952 ईशवीयाब्दं यावद् वैदुष्योपेतं सम्पादन-कर्म समाचरितवान्।

 

  1. पण्डित-वृद्धिचन्द्रशास्त्री (1904-1964 ई.)

     महामहोपाध्याय-गिरिधरशर्मचतुर्वेदानां शिष्य:, ‘आदर्श-दम्पती’ त्युपन्यासस्य लेखक:, महाराज-संस्कृत-कॉलेजे धर्मशास्त्रविभागस्याचार्योऽध्यक्षचर:,  ‘संस्कृतरत्नाकर’ इति प्रतिष्ठितसंस्कृतपत्त्रिकाया: सहसम्पादकचरो व्याकरण-धर्मशास्त्रयोर्लब्धप्रतिष्ठो मनीषिप्रवरो धर्मधुरीण: पण्डितवृद्धिचन्द्रशास्त्रिमहोदय: 1952 त: 1954 ई. पर्यन्तं ‘भारती’ पत्त्रिकां समपादयत्।

  1. भट्ट-मथुरानाथशास्त्री (1889-1964 ईशवीयाब्द:) :

     ‘रसगङ्गाधर’ नाम्न: काव्यशास्त्रीयग्रन्थस्य ‘सरला’ टीकाकार: जयपुर-साहित्य-गोविन्दवैभवानां प्रणेता, जयपुरस्थमहाराजसंस्कृतकॉलेजे साहित्यविभागाध्यक्ष-चर:, प्राक् ‘संस्कृतरत्नाकरपत्त्रिकाया:’ (1904-1949 ई.) कुशल: सम्पादकचर: ‘भारती’ मास-संस्कृत-पत्त्रिकाया: सम्पाकत्वं 1954 ई. वर्षत उररीकृत्य 1964 ई. वर्षं यावत् (निधनं यावत्) सम्पादनकार्यं निव्र्यूढवानयं कविशिरोमणि: भट्टमथुरानाथशास्त्रि-महोदय:।

  1. आशुकवि: पण्डितहरिशास्त्री (1893-1970)

     जयदेवमिश्रविरचित-‘गीतगोविन्द’ रचनामनुहरत: ‘रामचन्द्रस्तव:’ इति काव्यस्य प्रणेता, साहित्यशास्त्र-पारावारपारीण:, साधनाप्रवीणो महाराज-संस्कृत-कॉलेजस्य साहित्यशास्त्रप्राध्यापको महोपाध्याय आशुकविवरेण्य:  पण्डितहरिशास्त्रिमहोदय: ‘भारती’ पत्त्रिकामिमां 1964 त: 1969 ई. यावत् (पञ्च वर्षाणि) सम्पादितवान्।

  1. पण्डित-दीनानाथत्रिवेदी ‘मधुप:’ (1914 - )

     महाराज-संस्कृत-महाविद्यालये न्यायशास्त्र-प्राध्यापकचर:, सागरगर्वोक्ति-दरिद्रतैकादश्यादिहास्य-व्यङ्ग्योद्दीपकरचनाकार:, भारत्यां ‘नारी-स्तम्भ’ लेखनसमारम्भक:, पण्डितप्रवर: श्रीदीनानाथत्रिवेदी ‘मधुप:’ मन्ये 1969 त: 1980 ईशवीयाब्दं यावत् ‘भारतीपत्त्रिकाम्’ समपादयत्।

  1. पण्डित-जगदीशशर्मा (1910 - 1997) -

     वीरेश्वरशास्त्रिद्राविडानां व्याकरण-न्याय-मीमांसा-धर्मशास्त्रेषु सच्छिष्योऽथ बिहारिलालशास्त्रिणां सविधे साहित्यशास्त्रेऽधिगतप्रावीण्यो जयपुरस्थ-महाराज-संस्कृतकॉलेजे साहित्यविभागस्याचार्योऽध्यक्षचरो राष्ट्रपति-सम्मानित: साहित्यशास्त्रस्य प्रौढो विद्वान् पण्डितजगदीशशर्मा ‘भारती’ पत्त्रिकाया: सम्पादनकार्यं अक्तूबर, 1980 ई. त: दिसम्बर, 1996 ई. यावत् निरवहत्।

  1. पण्डित-रामगोपालशास्त्री (1921 - 1992) -

     साहित्य-धर्मशास्त्राचार्य:, राजस्थानसंस्कृतशिक्षा-विभागे धर्मशास्त्रे प्राध्यापक:, राजस्थानसंस्कृतशिक्षा-निदेशालये उपनिरीक्षकपदे कार्यं निर्वहन्नसौ निम्बार्क-सम्प्रदाये दीक्षित: पण्डितरामगोपालशास्त्रिमहोदय: ‘भारती’ पत्त्रिकायै पण्डितजगदीशशर्मणां प्रधान-सम्पाकत्वे सह-सम्पादकरूपेण नैकवर्षाणि सम्पादन-कार्यं निव्र्यूढवान्।

  1. देवर्षि कलानाथशास्त्री -

     ब्रजभाषाया: कवित्त-सवैयाप्रभृतिवृत्तेषु संस्कृत-कवनेन नूतनसरणिप्रवत्र्तकस्य मञ्जुकवितानिकुञ्जकाव्य-मालाया प्रकाशकस्य कविशिरोमणेर्भट्टमथुरानाथ-शास्त्रिणस्तनूजो विद्वज्जनचरितामृताद्यनेकग्रन्थानां सर्जको भाषाविभागसंस्कृतशिक्षाविभागयोर्निदेशक-चर:, राजस्थानसंस्कृताकादम्या अध्यक्षचरो राष्ट्रपति-सम्मानितो देवर्षिकलानाथशास्त्री 1954 त: 1962 पर्यन्तं स्वपित्रा सह भारत्या: सहायकसम्पादनकार्यमिदानीञ्च पञ्चाशीतिवर्षदेशीयोऽपि निष्ठापूर्वकं 1997 ईशवीयाब्दतो निरन्तरं प्रधानसम्पादकरूपेण सम्पादनकर्म निर्वहन्नसौ जयपत्तने चकास्ति।

  1. पण्डित-प्यारेमोहनशर्मा -

     राजस्थान-संस्कृत-शिक्षाविभागीयाचार्यसंस्कृत-महाविद्यालयेषु साहित्यशास्त्रे आचार्यप्राचार्यचर:, साहित्य-शास्त्रे नदीष्णानामाचार्य-जगदीशशर्मणां सच्छिष्यो राजस्थानसंस्कृताकादम्या निदेशकचर: पण्डित प्यारेमोहनशर्मा 1997 ख्रिष्टाब्दत: 2019 ईशवीयाब्दं यावद् (द्वाविंश वर्षाणि) ‘भारती’ पत्त्रिकाया: सम्पादनकार्यं कृतवान्।

  1. आचार्य: (डॉ.) श्रीकृष्णशर्मा -

     जोधपुरस्थ-जयनारायणव्यासविश्वविद्यालयीय-संस्कृतविभागस्याचार्योऽध्यक्षचर:, वाराणसीस्थकाशी-हिन्दू-विश्वविद्यालयीय-व्याकरणविभागे प्रगताचार्यचर: (ङ्कद्बह्यद्बह्लद्बठ्ठद्द क्कह्म्शद्घद्गह्यह्यशह्म्), जयपुरस्थ-ज.रा. राजस्थान-संस्कृतविश्वविद्यालये म.म. गिरिधरशर्माचतुर्वेदी-व्याकरणपीठाध्यक्षचर:, मैथिलपण्डितखड्गनाथ-मिश्राणां पटुशिष्य:, वृत्तिमीमांसाकारोऽधीतव्याकरण-न्याय-साहित्यशास्त्र: ‘स्वरमङ्गला’ पत्त्रिकायाअपि सम्पादक: प्रोफेसर-श्रीकृष्णशर्मा सम्प्रति (नवम्बर, 2019 ई. त:) ‘भारती’ संस्कृतमास-पत्त्रिकाया: सम्पादनं विदधाति।

     अस्या: ‘भारती’ पत्त्रिकाया: सह/सहायक-सम्पादनकार्यं कृतवन्त: कुर्वाणाश्च विद्वांस: सन्ति पण्डितश्रीरामदवे: (1922-2013 ई.) ‘भृत्याभरणम्’ इत्याद्यनेककाव्यग्रन्थानां प्रणेता, शाखाप्रबन्धकरूपेण बैंकसेवारतोऽपि संस्कृतस्य श्रेष्ठकवि:, विश्वसंस्कृतप्रतिष्ठानस्य प्रदेशसंघटनमन्त्री, राष्ट्रियस्वयंसेवकसंघस्य समर्पितसदस्य:, जोधपुर-वास्तव्य: पण्डितश्रीरामदवेमहोदयो भारत्या: द्विसहस्र-ख्रिस्ताब्दतो नवम्बर, 2012 यावत् सहसम्पादक आसीद्।

पण्डितपद्मशास्त्री (सन् 1935-2015)

     ‘लेनिनामृतम्’ ‘पद्यपञ्चतन्त्रम्’ ‘वेदविज्ञानामृतम्’ इत्याद्यनेककृतीनां सर्जको राष्ट्रपतिसम्मानित: श्रीपद्मा-दत्तशास्त्रिमहोदय: द्विसहस्रख्रिस्ताब्दतो नवम्बर, 2012 यावत् सुदीर्घकालं यावदस्यै ‘भारती’ पत्रिकायै सह-सम्पादकरूपेण सेवां प्रदत्तवान्। अधुनाऽयं विद्वान् चिरस्मृतिं गत:।

आचार्य: सुरेन्द्रकुमारशर्मा

     राजस्थानसंस्कृतशिक्षानिदेशकचर:, साहित्य-शास्त्रस्य प्रौढ़ो विद्वान् प्रोफेसर-सुरेन्द्रकुमारशर्मा 2012 ईशवीयाब्दतो ‘भारती’ पत्त्रिकाया: ‘सह-सम्पादक’ रूपेण सपरिश्रमं कार्यं कुर्वन्नधुना जयपत्तने चकास्ति।

पण्डित-शिवशरणनाथत्रिपाठी -

     साहित्य-व्याकरणशास्त्राचार्य:, अखिलभारतीय-संस्कृतसम्भाषणप्रतियोगितायां लब्धस्वर्णपदक:, समस्यापूर्तौ कुशल:, राजस्थानसंस्कृतशिक्षाविभागे साहित्यशास्त्रव्याख्यातृपदे सेवायां संलग्न: श्रीशिव-शरणनाथत्रिपाठी पञ्चदशवर्षेभ्य: ‘भारती’ पत्त्रिकाया: 2006 ई. त: ‘सह-सम्पादक’ कर्मणि संलग्नोऽस्ति।

आचार्य: (डॉ.) हिन्दकेसरी (1947-2009)-

     विद्वत्सु लब्धप्रतिष्ठो निविष्टवैयाकरणो राष्ट्रिय-संस्कृतसंस्थान-जयपुरपरिसरस्य प्राचार्यचरो डॉ. हिन्दकेसरी-महोदय: ‘भारती’ पत्त्रिकाया: सह-सम्पादकरूपेण द्विसहस्रख्रिस्ताब्दतो जून, 2009 ख्रिस्ताब्दं यावत् मनोयोगपूर्वकं समर्पितभावनया सम्पादनकर्म व्यधात्।

डॉ. शिवचरणशर्मा  (2012-2016)-

     राजस्थानसंस्कृतशिक्षाविभागीय-राजकीय वरिष्ठ उपाध्यायविद्यालये प्रधानाचार्य:, संस्कृतसम्भाषणे कुशलप्रशिक्षक:, बङ्गकविवरेण्यबंकिमचन्द्रचटर्जी-विरचित-‘आनन्दमठ’ इत्युपन्यासस्य संस्कृतेऽनुवादको डॉ. शिवचरणशर्मा ख्रीष्टाब्द-2012 त: जून, 2016 पर्यन्तं ‘भारती’ पत्त्रिकाया: ‘सह-सम्पादक’ रूपेण कार्यं सम्पादितवान्।

डॉ. स्नेहलताशर्मा -

     राजस्थानसंस्कृतविश्वविद्यालये साहित्यशास्त्रस्य सुयोग्या विनम्रा च विदुषी सहायकाचार्य-पदमलङ्-कुर्वती ‘भारती’ पत्त्रिकाया: ‘सहायक-सम्पादक’ रूपेण नवम्बर, 2019 ख्रिष्टाब्दत: सम्पादनकर्मणि साहाय्यं विदधाति।

राजीवदाधीच: -

     ‘भारती’ कार्यालये व्यवस्थापकपदे नियुक्तोऽत्यन्तं विनम्र: सन् ‘भारती’ पत्त्रिकाप्रकाशने विगतेभ्योऽष्टा-विंश (28) वर्षेभ्य: साहाय्यं विदधाति। एवमेव ‘अविनाश आचार्य:’ अपि पत्त्रिकाप्रकाशनकर्मणि कार्यालये मनोयोगपूर्वं साहाय्यमाचरति।

     पत्त्रिकाया द्वौ स्थायिस्तम्भौ वर्षेभ्य: प्रचलत:- 1. नारीस्तम्भ: 2. आयुर्वेदस्तम्भ:।

  1. नारीस्तम्भ: अस्य लेखिका साधनापुरस्काराद्य-नेकपुरस्कारैस्सभाजिता, सोमनाथसंस्कृतविश्वविद्यालय (गुजरात) द्वारा प्रदत्त-‘डी.लिट्’ इत्युपाधिनाऽलंकृता, लालबहादुरशास्त्रिकालेजे संस्कृतविभागाध्यक्षचरा डॉ. राजेश्वरीभट्ट-महोदया 1976 ईशवीयाब्दत: (44 वर्षेभ्यो) निरन्तरं ‘भारती’ पत्त्रिकायां सरलसंस्कृते नारीमहत्त्वप्रदर्शकं प्रेरणास्पदं हिन्दी-अनुवादसहितं यथाकालं लेखं लिखति।
  2. आयुर्वेदस्तम्भ: - जयपुरस्थ-राष्ट्रियायुर्वेद-संस्थानस्य निदेशकचर:, जोधपुरस्थ-राजस्थान आयुर्वेद-विश्वविद्यालयस्य कुलपतिचर:, राष्ट्रपति-सम्मानितो डॉ. बनवारीलालगौडमहोदय: प्राञ्जल-संस्कृतभाषायां हिन्द्यनुवादसहितां प्रतिमासमायुर्वेद-सम्मतां दिनचर्यां ऋतुचर्याञ्च 1986 ईशवीयाब्दत: (34 वर्षेभ्य:) निरन्तरम् आयुर्वेदस्तम्भरूपेण ‘भारती’ पत्त्रिकायां लिखति।