संस्थापक

त्यागमूर्तय: श्री 'दादाभाई’ गिरिराजशास्त्रिण: परिचय:
- प्यारेमोहन शर्मा

dadabhaiको नाम भारतीसमुपासको न जानति दादाभाई ति नाम। महाभागानामेषां पूर्वजेषु हषीकेशाभिधा विद्वद्वरेण्या मिषग्वरा-दिल्लीसम्राज: महाराजपृथ्वीराजचौहानस्य-भगिन्या पृथया सह-उदयपुरमागच्छन्। पृथाया विवाहो उदयपुर-महाराणा-महोदया स्तेभ्य: पीपलाग्राम प्रायच्छन् आवासाय-चोदयपुरे विशालं भव्यं भवनमदु:। वर्षाणि तदीयोत्तराधिकारिण:, ससम्मानं तत्र न्यवात्सु: राज्यसम्मानञ्चालभन्त:।

कालक्रमेणोदयपुरमहाराणामहाभागानां पुत्र्या विवाहो जयपुरनृपतिमि: सह समभूत्। हर्षकेशवंशराजा वैद्यवर्या: श्री शिवरामहोदया रत्त्दानीं तया सह जयपुर मायु:। परम्पराप्राप्तचिकि त्साज्ञान-निधयो भगवत्या: पराम्बाया: समुपासका भिषग्वरा: श्री शिवरामा: स्वीयचिकित्साकौशलेन जयपुरमहाराजभ्य: सातिशयं सम्मानमवाप्नुवन्। जयपुरमहाराजद्वारा श्रीमद्भ्य: किशनपोलहट्टे विशालं भव्य भवनमावासायप्रदत्तम्। "आचार्यो की हवेली" ति नाम्रा तद्भवनमद्यापि किशनपोलबाजारे सुप्रसिद्धं वर्तते। निवसन्त्यत्राद्यापि वैद्य-शिवरामवंशजा:। यद्यप्यधुना स्वपूर्वजानामाशिषा कृतिनो बहवो विद्याविनयसम्पन्ना आचार्या: समृद्धा भूत्वा नगराद्बहिर्नवीनानि भवनानि निर्माय तेषु निवसन्ति, परमाचार्याणां हवेलीभवनेऽद्यापि निवसन्ति केचन तद्वंशजा:। वैद्यशिवराममहोदयानां चिकित्सया यदि पञ्चदिनेष्वेव नैरुज्यमलभत। प्रसन्ने जयपुरमहाराजेन श्रीमद्भ्य सवाईधन्वन्तरी आचार्येत्युपाधि: प्रदत्त:। उदयपुरस्य राजकु मार्या वह पालीवालविप्रा: कासीलीवालाभिघा वैश्या अपि जयपुरमागच्छन्। तेभ्योऽपि नृपतिना भुमयो भवनानिच प्रदत्तानि। वैद्यशिवराममहोदयेभ्यो मालपुरोपखण्डा-न्तर्गत: (तह सील मालपुरा) शङ्कर पुराग्रामो जमवारामगढबन्धसमीपे खराणाग्राम: चाक सूतहसीलान्तर्गत महासिंहपुरा (मजूखडा) ग्रामश्च प्रदत्ता नृपतिना।

वैद्यश्रीशिवराममहोदयानां वंशजषु दादाभाई- महोदयानां पितामहचरणा: श्री हरिनारायणाचार्या अजनिषत। श्री हरिनारायणा: संस्कृतस्य सम्यगध्ययनं विधाय श्रीमाधवसिंहनृपासिंहनृपानिभिर्निर्मिते गङ- गालीगोपालजीमन्दिरे मुखियापदमलमन्त। श्रीमन्तो भगवतमहापुराणस्य श्रेष्ठा: प्रवाचका आसन्। पवित्रतां प्रतिपूर्णरुपेण दत्तावधाना इमे समयमपि दाढर्य़ेनापालयन्। निर्धारितसमयात् क्षणमात्रस्यापि विलम्बं नासहन्त। मन्दिरे पूजायै कूपोदकेन स्नातममुं यदि बालकोऽपि अज्ञानादेव स्पृशेत् तर्हि पुनरेवास्नान्। भोजनकाले स्नात्वा कौशेयवस्त्रं धारयित्वा भूमे: परिमार्जनं विधायैकान्ते पूर्णपवित्रतयौवाभुञ्जत।

श्रीगिरिराजशास्त्रिण: पितृचरणा: श्री आनन्दीनारायणमहाभागा अपि संस्कृ तमपाठिषु:। स्वपितृचरेणेभ्यो भागवतमहापुराणमपठ न्। पं. श्रीहरि नाराणाचार्याणां सेवानिवृत्यनन्तरं श्री आनन्दीनारायणा गंगाजीगोपालजीमन्दिरे मुखियापद-मलभन्त। दाधीचवंशावतंशानां बाक्कीलाना श्री इन्द्रश्वररतावामहोदयानां पुत्र्या सहानन्दीनारायणानां-विवाह: संजात:। पुत्रप्राप्तिकामनया सपत्नीका: श्रीआनन्दीनारायण गिरिराजपर्वतप्रदक्षिणामकार्षु:। परिक्रमा कुर्वन्तो गिरिराजं प्रार्थयन्त हे गोवर्धननाथ! मह्यं पुत्रं यच्छतु। गिरिराजस्य कृपया 1978 मिते वैक्रमाब्दे अनन्तचतुर्दशीदिने भाद्रपदशुक्लपक्षे 1921 मिते ख्रिष्टाब्दे स्वयं गिरिराजो गिरिराजरूपेऽवातरदानन्दीनारायणगृहे। पुत्रजन्मना प्रसन्ना: पितृपितामहादयो ब्राह्मणेभ्यो दानमकार्षु:। बन्धुजनेभ्य: मिष्ठान्नासनि प्रायच्छन्। किञ्चित् कालानन्तरं तत्र गत्वा गिरिराजं गोवर्धनमानर्चु:। आनन्दीनारायणस्य भगिन्याविवाहो नामावालावटङ्कै: श्रीग्यारसीलालमहोदयै: सह संजात:। इमे जयपुरस्थसुप्रसिद्ध मोतीडूँगरीगणेशमन्दिरस्य महन्ता गणेशासमर्चकाश्चाभूवन्। श्रीहरिनारायणा: स्व्प्रभावेण धर्मार्थाविभागायुक्तं श्रीशिवनाथसिंहमहाभागं प्रैस्यन् यन्मदीयजामातु श्रीग्यारसीलालमहाभागानां पितृचरणा: श्री शिवनारायणमहाभागा: श्रेष्ठाविद्वांस: सदाचारसम्पन्ना: पण्डिता वर्तन्ते। अतो गणेशमन्दिरनमहन्तपदे ते नियोक्तव्या:। तेषामेवप्रेरणया मोतीडूँगरीगणेशमन्दिरे प्रत्यतिष्ठिपन्। ग्यारसीलालमहाभागानां: ज्येष्ठभ्रातर आसन् श्रीबोड ीलालमहाभागा:। सन्ततिहीना बोडीलालमहाभागा: स्वानुजस्य कनिष्ठपुत्रं राधेश्यामं दत्त्कपुत्रत्वेनागृह्नन्। श्रीराधेश्यामो महाराजसंस्कृत-महाविद्यालयेऽन्तरमायुर्वेदमहाविद्यालये चाध्ययनं कृत्वा भिषगाचार्यो पाधिमलभत। कु शलश्चिकित्सक: श्रीराधेश्यामो राजकीयौषधालये नियुक्तो भूत्वा रोगिणोऽसेवत। पूर्णा राज्यसेवां विधाय जिला आयुर्वेदाधिकारिपदात् सेवानिवृत्तिमलभत। श्री राधेश्यामस्य पुत्रा: श्री कैलाशचन्द्रमहोदया: सम्प्रति मोतीडूँगरी गणेशमन्दिरस्य महन्तपदे विराजन्ते। इसे व्यवहारकुशला विद्वांसो धर्मपरायणा: कु शलप्रशासकाराजनीतिनिपुणा: प्रभावशालिनो महन्तवर्या: सम्प्रत्यपि दादाभाई-महोदयान् साष्टाङ्गं प्रणमन्ति सत्कुर्वन्त्यादेशं पालयन्ति च।

इ तश्च दादाभामहोदयानां मातामहा: अभिभाषकवरा: श्री इन्द्रेश्वरमहोदया: कृष्णभक्तिमापन्ना जयपुरं विहा वृन्दावनमगच्छन्। तत्रेमे गोपीनाथमन्दिरेऽधिकारिपदमलभन्त। स्वव्यवहारेण भगवद्भक्तया च वृन्दावनेऽतीव लोक प्रिया प्रभावशालिनश्चाभूवन्। तत्रत्यजनानामाग्रहेण निर्वाचने विजयवमाप्येमे नगरपरिषदि पार्षदपदमलञ्चकु्र: । श्री इन्द्रश्वरमहाभागा वृन्दावने विशालमके भवनं धर्मशालां गणेशमन्दिरं च निरमापयन्। सम्प्रत्यपि तत्र भवद्वंशजा निवसन्ति।

अस्माकं चरितनायकानां दादाभाई-महोदयानामेको कन्ष्ठिो भ्रातासीत्। गोपालनाम्रा सुपरिचतोऽयं परम्पराप्राप्तमन्दिरे (गङ्गाजीगोपालजी) मुख्यिापदे नियुक्तिमलभव। चरितनायका: श्री गिरिराजशास्त्रिण: प्रारम्भिकीं शिक्षा दरबारमिडिलस्कूलनाम्रि विद्यालयेऽलभन्त। षष्ठकक्षां यावदत्राध्ययनं विधाय सप्तमकक्षायां महाराजसंस्कृतमहाविद्यालयस्य विद्यालये विभागे प्राविशन्। तदानीं विद्यालयविभागे ये गुरु जना अपाठ यन् तेषु-प्रमुखा आसन् श्री गोपालनाथधर्माधिकारिण: श्रीभावनजीमहाभागा: श्रीहर्षनारायणाश्च।

अस्मिन्नेव समये श्रीमतां विवाह: श्रीरामप्रतापतिवाडीमहोदयानां पुत्र्या गुलाबदेव्या सह 1931 तमे ख्रिष्टाब्दे समभवत्। विवाहानन्तर-मप्यध्ययनक्र मो यथावत्प्रावर्धत। महाराजसंस्कृत महाविद्यालये नियमितछात्ररू पेणाध्ययनं विधाय श्रीमाद्भि: साहित्योपाध्यायपरीक्षा समुत्तीर्णा। ततश्वशास्त्रिप्रथमवर्षे  प्राविशन्। अस्म् िसमये महाविद्यालयविभागे गुरव आस्-श्री मथुरानाथशास्त्रिण नीनछकिशोरनैयायिका: नामावाला: श्री नन्दकिशोर साहित्याचार्या: भट्टश्रीरामचन्द्रशास्त्रिण: श्रीमाधवजी शास्त्रिमहाभागा: श्री प्रभुनारायणनाट्याचार्या: श्री यशोधरझाप्रभृतय:।

श्रीमतां सहाध्यायिषु श्री बलदेवदाधिमथा: श्रीदीनानाथमधुपा गोपीकृष्णगोस्वामिन: श्री रघुवीरदत्तशर्माण: दुर्गादत्तसाहित्याचार्या श्री कल्याणदत्त अन्ये च केचन मेधाविश्छात्रा आसन्।

अस्मिन्नेव समये भारते गान्धिनो नेतृत्वे स्वतन्त्रतान्दोलनं समारब्धम्। महोदया इमेऽपि महाध्यायिभि: सह स्वतन्त्रतान्दोलने भागमगृहणन्। 1942 वर्षे  प्रथमविश्वयुद्धमभूत्। आङ्गलदेशस्यप्रधानमन्त्री चर्चिल: स्वेच्छयैव भारतमपि विश्वयुद्धे प्राक्षिपत्। चर्चिलविरोधे जयपुरे छात्रा आन्दोलनं चक्रु:। महाराजसंस्कृतमहाविद्यालयस्य छात्रा अपि अस्मिन् आन्दोलने भागं गृहीत्वा चर्चिलविरोधे घोषमकार्षं:। छात्रा निगडिता:। तस्मिन् समयेऽत्र श्रीज्ञाननाथा राज्यस्य प्रधानमन्त्रिण आसन्। डी.आई.जी. पदे नियुक्ता आसन् मूलसिंहमहोदया:। आन्दोलनरतान् छात्रान् प्रगृह्य दूरं नीत्वा त्यजन्त्विति तावाज्ञापयताम्। इ त्त्थं शास्त्रिकक्षायामध्ययनं गौणीभूतमजायत।

प्रारम्भत एव श्रीमतां व्यायामेऽमिरुचिरवद्र्धत। गुरव: श्रीधर्माधिकारिणो  व्यायामाय  प्रैरयन्। ते प्रायशोऽकथयन् ''नायमात्मा बलहीनेन लभ्य:”। बलहीनं शत्रव: पराजयन्ते। यदि स्वातन्त्र्याभिलाषिणो भवन्त स्तर्हि व्यायामेन गात्रं बलशालिनं हष्टं पुष्टं कुर्वन्तु। तत: भवन्तो मिर्जामहोदयानां व्यायामशालायां गत्वा मल्यद्धशिक्षामगृह्न न्। तदनन्तरं रामनिवासोद्याने (जमास्टिक) व्यायामशालायां स्वयमेव नानाविधान् व्यायामानकुर्वन्। शनै: शनैस्तत्र भवद्भ्यो व्यायाम-शिक्षामवाप्तुं नैके युवका: सभागचछन्। भवन्तोऽपि समनोयोगं तानशिक्षयन्। अस्मिन्नेव समये श्री मगदीशाचार्येभ्योऽध्ययनं विधाय भवन्त: साहित्यशास्त्रिपरीक्षामुदतर्। ततश्वोपार्जनाश्चिया राज्यसेवावाप्तये निदेशक क ार्यालये भवद्भि: प्रार्थनापत्रं प्रदत्तम्। आसीत्त्दानीं विलियम ओवन्सनामा निदेशक: स भवन्तं व्यायामशिक्षक पदे महाराजसंस्कृ तमहाविद्यलाये विद्यालयविभागे न्योजयत्। किञ्चित् कालानन्तरं श्रीमतां हिन्दी संस्कृतशिक्षकपदे रथखानामाध्यमिकविद्यालये नियुक्ति: संजाता। ततश्च दरबारमाध्यमिकविद्यालये स्थानान्तरिता:।

रामनिवासोद्याने व्यायामशालायां श्रीम्नतं द्रष्टुमेको युवक: शिवकुमार: संप्राप्त:। आसीत् स राष्ट्रीयस्वयंसेवकसंघस्य स्वयं सेवक:। यथा तेन व्यवहार: कृतस्तेन श्रीमन्त: सातिशयं प्रभविताअभूवन्। शिवकुमारो राष्ट्रीयस्वयंसेवक संघप्रचारकाणां श्रीमोश्वरशर्मणामावासे दादाभाईमहोदयाननयत्। तत्र प्रथमवारं तै: सह परिचय: संजात:। परन्तु प्रथमपरिचये एव तेषां व्यवहारेणश्रीमन्तो नितरां प्रभाविता अभूवन्। तेषामेव प्र ेरणया 1941 ख्रिष्टाब्दात् श्रीमन्त: राष्ट्रीयस्वयंसेवकसंघस्य स्वयंवेका भूत्वा प्रतिदिनं संघशाखायामगच्छन्।

सर्वत: प्रथमं श्रीरामेश्वरै: सह नथमलजी का कटलानाम्नि स्थाने शाखायामगच्छन्। तत्रत्या: स्वयंसेवका: नमस्ते शब्देन यदाऽभिवादनमकार्षुस्तदा तषां व्यवहारेण समाकर्षिता भवन्तोऽचिन्तयन् यत्। शाखागमनं सर्वोत्तमं कार्यं विद्यते। परस्परं स्निह्यन्ति। यदाकदा कस्यापि स्वयंसेवकस्य गृहे सर्वे परस्परमालिन् स्वल्पाहारादिकं च भेदभावं स्पृश्यास्पदृश्यं विहाय स्नेहे नाकार्षु :। श्रीरामेश्वरमहाभागै: सहइमेऽपि तत्रागच्छन्।

1942 तमे ख्रिष्टाब्दे श्रीतामरकरमहोदया ये हि महाराजकालेजे विज्ञानप्राध्यापका आसन् ते रायमहोदयानपश्यन् तेषां स्वकृतिं लब्ध्वा ''रायजी का घेर” नाम्रि स्थाने निरवर्तिता। एकदा दादाभाईमहोदया: प्रीतिभोजे सम्मिलिलिषव: शाखास्थानात्रसमयसमाप्ते: पूर्वमेवाजिगमिषन्। एभिर्निवेदिता: प्रचारका: समुदतरन्य दिीावानेव मुख्यशिक्षका: शाखाया अभविष्यत्तहि किं तदापि शाखां विहाय समयात् पूर्वमेवागमिष्यत्। तेषां कथनेन प्रभाविता इमे ततो न कदापि समयात् पूर्वं शाखास्थानमत्यजन्। 1942 पर्यन्तं संघशिक्षकवर्ग: केवलं नागपुरे एव समायोज्यतेस्भ, परन्तूत्तरभारते यदा स्वयंवेका अवर्धन्त तदा सौकर्याय 1943 त: प्रथमवर्षे शिक्षणमत्रैवाधिगतम्। तदनन्तरभिमे मुख्यशिक्षक-दायित्वमगृवह्न्। श्रीमन्त: कथयन्ति मेरठे संघशिक्ष्ज्ञवर्गे चत्वारि दिनानि यावत् सरसंघचालका: गुरुवर्या: श्री माधवरावसदाशिवरावगोलवल्क रमहोदया: स्वय-मुपातिष्ठन्। सर्वत: प्रथममिमे तत्रैव तेषां दर्शनमलभन्त। अधुनापि सरसंघचालकानां सदुपदेशं श्रीमन्त: सादरं स्मरन्ति। कथयन्ति दादाभाईमहोदया यत् श्रीगुरुजी महोदया अवदन्-संघटनमेलयोर्मध्ययेऽयमेवभेदोऽस्ति यन्मेलायां स्वेच्छया निरंकुशा: स्वतन्त्रा: जनाभ्रमन्ति परन्तु संघटने समवेता: सर्वे कस्याप्येकस्य प्रमुखस्याज्ञां पालयन्ति। संघटनं तेषामेव जायते यस्य प्रत्येक: सदस्य: प्रमुखस्यादेश यथावत् पालयति। यथासंघटने कोऽपि सदस्य: स्नातकोत्तर-परीक्षोत्तीर्णो ऽपरश्च प्रवेशिका परीक्ष्ज्ञोत्तीर्ण:। प्रमुख: प्रवेशिकारीक्षोत्तीर्णाय गुरुतरं दायित्वं प्रयच्छति। अत्र संघस्वयंवेका: न किमपि विचारयन्ति प्रमुखस्यादेशं सहष्ज्र्ञ सद्य: पालयन्ति। प्रथमवर्षप्रशिक्षणानन्तरं भवन्तोऽत्र संमागतास्तदानं संघस्यापराशाखा महावीरपार्कनाम्रि स्थाने प्ररब्धा। भवद्भ्यो द्वयोरेवोत्तरदायित्वं प्रदत्तम्। संप्रति श्रीमन्त: शाखयोद्र्वयो: कार्यवाहा: संजाता:। एक्याप्रचीनया द्विचक्रिकया भवन्त: शाखासमये उभ्यत्रागच्छन्। 1943 वर्ष एव दादाभाईतो गुलाबदेव्यां पुत्र: समुत्पन्न:।

1943 वर्षे माननीयवच्छराजव्यासा राजस्थानप्रचारकत्वेन जयपुरमाययु:। कानिचिद्दिनानीमे किशनपोलमार्गे दादाभाईनिवास्थान ''आचार्यो की हवेली” नाम्रि भवने न्यवात्सु:। आसीत् तदानीमाङ्गलजानां शासनम्। राजान: सर्वेऽप्याङ्गलशासनाधीना राज्यमकार्षु:। आङ-गशासकैराज्ञापत्रं प्रेषितं यत् क स्मिन्नपि राज्ये सर्वकारविरोधिसंघट नं न भवेदित्यवधेयम्। वच्छराजमहोदयै: सर्वमिदं विलोक्य कथितं यदद्यप्रभृति राष्ट्रियस्वयंसेवकसंघशाखास्थाने सत्सङ्गशाखासु गच्छाम इति वक्त व्यम्।गुप्तचरा: शासनसुरक्षायै सर्वत्र प्रासरन्। हिन्दुसंघटने के कार्य-कर्तार: सन्तीति ते गुप्तरूपेण ज्ञात्वासर्वकारमसूचयन्। अत: श्रीबच्छराजमहोदयानामाज्ञया तेषां नाम ''भैयाजी” इति निर्धारितम्। अन्येऽभ्योऽपि प्रदात्तान्यन्यानि नामानि। यथाराधाकृ ष्णरस्तोगीकृ ते ''चाचाजी” गिरिराजशास्त्रिण: ''दादाभाई” द्वारकाप्रसादाय राजाभैया इति। गुप्तचरा एभिर्नामभिरेव सुपरिचिता: स्वकार्यमकार्षु: 1944 वर्षे द्वितीयवर्षप्रशिक्षणमधिगतं मेरठत:। तदनन्तरं दादाभाई नगरकार्यवाहपदे नियुक्ता अभूवन्। 1945 वर्षे नागपुरात् तृतीयवर्षप्रशिक्षणमधिगतम्।

तृतीयवर्षप्रशिक्षणानन्तरं वच्छराजव्यासा आदिशन् यद् राज्यसेवां परित्यज्य त्रीणिवर्षाणि यावद्प्र वासं विधाय कुर्वन्तु। श्री वच्छराजमहोदया: पत्नीपक्षतो दादाभाई महोदयानां निक ट तमसम्बन्धित: (चाचेरश्वसुर) आसन्। श्रीदादाभाईमहोदयैरुक्तं यन्मदीयपत्नी पुत्र: मातापितरौ च विद्यन्ते। राज्यसेवां यदि त्यक्ष्यामि तर्हि कथं कार्यं प्रचलिष्यति? सम्बन्धिनो भवन्त: सर्वं जानन्ति। परन्तु श्रीवच्छराजै: प्रेरिता भवन्त: सद्य एव राज्यसेवामत्यजन्।

पूर्वमेव वर्णितं यद्दादाभाईमहोदया: हिन्दीसंस्कृत-शिक्षपदे वर्षं यावत् दरबारमाध्यमिकविद्यालये जयपुरे शिक्षणकार्यमकार्षु। तदानीमस्य विद्यालस्य प्रधानाध्यापका आसन् हादिअलीमहोदया। ''दरबार स्कूल” नामना सुप्रसिद्धोऽयं विद्यालयो यस्मिन् स्थाने स्थितोऽस्ति तत्र मुलसमानानां संख्या बाहुल्ये वर्तते। एकदाविद्यालये हिन्दवो मुसलमानाश्चायुध्यन्। दादाभाई तदानीं तस्मिन् विद्यालये कार्यरतो नासीत्। परन्तु प्रधानाध्यापको हामिदअली र्भवद्भि: सुपरिचत आसीत्। हिन्दुमुसलमानयोर्यु द्धमवरोद्धं ु हामिदअली सक्षमा नावर्तत। तेन शीघ्रमेव दादाभाई समीपे इत: प्रेषित: स न्यवेदयत् यद् भवन्त: शीघ्रमागच्छन्तु। वृत्तं लब्धा दादाभाईमहोदयास्तत्रागच्छन्। दादाभाई समागत इति श्रुत्वैव सर्वे योद्धारश्छात्रा अन्येयुवकाश्च कान्दिशीका बभूवु:।

अस्तु 1946 वर्षे  राज्यसेवां परित्यज्य परिवारमोहमुक्ता इमे किशनगढनगरे राष्ट्रीयस्वयंवेक-संघस्य प्रचारका अभूवन्। तत: प्रभृति जयपुरेऽमे न गृहं न्यवात्सु:। जयपुरे नानाजी को हवेली भवने गोपालजी मार्गे संघकार्यालय एवं भवन्तो न्यवसन्। कालक्रमेण जयपुरे संघ: सर्वकारेण प्रतिबन्धित:। श्रीमन्त: शासकै र्निगृहीता:। अधिकारिभि: पृष्टा इमे निर्भयं प्रत्युत्तरमदु:। अहंसंघकार्यं करोमि। यावद्भारते हिन्दुव: सुसंघटिता न भविष्यन्ति तावदहमिद्र कार्यं करिष्यामि। मुख्यमन्त्रिण: समीपे गुप्तचरै: सूचनाप्रेषिता। परन्तु न्यायाधिकारिभिरभिभाषकैश्च परामर्शं विधाय प्रमाणाभवे भवद्धिरुद्धं किमपि कर्तुमशक्ता: शासनाधिकारिणो मुख्यमन्त्रिण आज्ञया भवन्तं कारागारादमोचयन्।